वांछित मन्त्र चुनें

मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥

अंग्रेज़ी लिप्यंतरण

mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṁ śṛṇoty uktam | amantavo māṁ ta upa kṣiyanti śrudhi śruta śraddhivaṁ te vadāmi ||

पद पाठ

मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् । अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥ १०.१२५.४

ऋग्वेद » मण्डल:10» सूक्त:125» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:11» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मम) मेरे द्वारा अनुमोदित (सः-अन्नम्-अत्ति) वह भोजन खाता है (यः-विपश्यति) जो विशेष देखता है (यः प्राणिति) जो प्राण लेता है (यः-ईम्-उक्तं शृणोति) जो ही कहे हुए को सुनता है (माम्) मुझे (अमन्तवः) न माननेवाले हैं (ते) वे (उप क्षियन्ति) उपक्षय-नाश को प्राप्त होते हैं (ते) तुझे (श्रद्धिवम्) श्रद्धायुक्त सत्यवचन (वदामि) कहती हूँ (श्रुत-श्रुधि) हे विश्रुत-प्रसिद्ध सुन ॥४॥
भावार्थभाषाः - जो खानेवाली-देखनेवाली, सुननेवाली पारमेश्वरी ज्ञानशक्ति को नहीं मानते, तदनुसार आचरण नहीं करते, वे क्षीण हो जाते हैं, यह सत्य है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मया) मयाऽनुमोदितः (सः-अन्नम्-अत्ति) स भोजनं भक्षयति (सः-विपश्यति) स विशिष्टं पश्यति (यः प्राणिति) यः प्राणं गृह्णाति (यः-ईम्-उक्तं शृणोति) यश्चोक्तं वचनं शृणोति (माम्-अमन्तवः) मां न मन्यमानाः (ते-उप क्षियन्ति) ते खलूपक्षयं प्राप्नुवन्ति (ते) तुभ्यं (श्रद्धिवं वदामि) श्रद्धायुक्तं वचनं वदामि (श्रुत श्रुधि) विश्रुत-श्रवणे प्रसिद्ध ! मम वचनं शृणु ॥४॥